Friday, August 29, 2008

Kalidasa or Bhavabhuti - who is better?

कैलाशे शिवपार्वत्यो: एकदा एक चर्च: उत्पत्तित: । पार्वती पृष्टवती शिवं यत् किमर्थम् भवान् कालिदासं भावभूतॆ: श्रेष्टम् मन्यते इति । शिव: उक्तवान् यत् उभौ परीक्षाम् कृत्वा पश्यतु इति ।

अथ पार्वती एकां सामान्यां स्त्रीं भावयित्वा कुमारम् मृत्युं शिशुं इव धारयित्वा भॊजराजस्य प्रासादं गतवती । तत्र राजानं धृष्ट्वा रुदित्वा उक्तवती यत् भॊज महाराज । शिशु: मम मृत्यु: जात: । महर्षि: कश्चन उक्तवान् यत् यदि कोपि ’पुरा नि:सरणो रणा:’ इत्यस्य स्लोकस्य समसपूरणम् करोति चेत् शिशु: सजीवनं प्राप्नोति इति । उज्जयिनीसाम्राज्यॆ नवरत्नकवीनाम् श्रेष्ट: कोपि न अस्ति इति जगत्प्रसिद्ध: एव । अत: कृपया मम साहाय्यं करोतु भवान् इति ।

भॊज महाराज: तस्या: स्थितिं धृष्ट्वा करुणापूर्णेन अवदत् ’इदानीम् कवि: भावभूति: आगच्छति, तं पृच्छतु’ इति । पार्वती भावभूतिम् उपगत्य रुदित्वा पूर्वं भॊजराजम् यदुक्तम् तत् पुनरवदत् । भावभूति किन्चित् विचिन्त्य श्लोकस्य समसपूरणम् इदनीम् क्रुतवान् ।




परन्तु शिशु: न सजीवित: एव । भावभूति: पार्वतीम् उद्दिश्य ’क्षमाम् क्रियताम् । यावत् मया ज्नातम् तावत् प्रयत्नम् कृतम् । इत:परम् कोपि युक्ति: न मया ज्नातम् । अपि भवती कालिदासम् पृच्छतु । स: साहाय्यम् कुर्यात्’ इति ।

किन्चित् कालानन्तरं महाकविना कालिदासेन वेगेन प्रासाद: प्रवेशित: । पार्वती तमपि एवमेव उक्त्वा साहाय्यकं पृष्टवती । कालिदास वरकवि: अस्ति खलु । क्षणमपि तेन न चिन्तितम् । समासपूरणम् इदनीम् कृतम् ।

पार्वत्यै महत् आश्चर्यम् । भावभूतिना अपि एतदेव समसपूरणम् कृतम् । परन्तु कालिदसेन उक्तम् अपि शिशु: न उत्तिष्ट: । पार्वती अवदत् ’भो कालिदास किमर्थम् मम शिशु: न सजिवित: । तदा कालिदास: प्रत्यवदत् यत् एतस्मात् समासपूरणात् शिशु: न उत्तिष्टति चेत् शिशु न मृत: स्यात् इति । अथवा अपि अन्येन केनापि एतादृश: समासपूरण: कर्तुम् न शक्यते ।

पार्वती कैलाशम् प्रतिगतवती । महेश्वर: विवरणम् कृतवान् । कालिदासभावभूतयो: कवित्व रुपॆन भॆद: नास्ति । परन्तु भावभूत्यौ स्वकृत्यौ संशय: अस्ति । कालिदेसे परिपूर्ण self-confidence अस्ति । यदि तेन न क्रियते तर्हि केनापि न क्रियते इति ।

पार्वती अङ्गीकृतवती ।
Post a Comment