Wednesday, September 25, 2013

It may be sometimes like this

हिम ऋतुः आयमानः अस्ति । अस्मिन् नगरे तु सर्वदा मेघावृतः । पौलेन उक्तम् आसीत् ७ वादने एव अत्र भवति इति । सद्यः १५ निमेषात् अनन्तरम् अपि सः न आगतः । कुतोऽयम् विलम्बः । इतोपि किञ्चित् प्रतीक्षाम् करोमि । आगच्छति चेत् वरं नोचेत् अहमेव विद्यालयं गच्छामि । प्रातःकाले सुहृद्भिः विद्यालयं गन्तुम् मार्गकोणे प्रतिक्ष्यमाने मम चिन्तनयानम् निरोद्धुम् स्कन्धे लघूष्णहस्तम् स्पृष्टम् । प्रतिक्रम्य तत्र जार्जम् दृष्टवान् । ’जार्ज! नमस्कारः । आगतवान् वा ! समयः एव ।’

जार्जः मौनेन मां दृष्ट्वा नेत्रोन्मीलनं कृतवान् । सः अधिकतया न वदति । परन्तु सुहृदाम् मनश्चालनम् सम्यक् अवगन्तुम् समर्थः । योगाभ्यासम् वा ध्यानम् वा किमपि करोति । प्रायः तस्मात् बलम् । तदा एव ’सुहृदो’ इत्युक्तं शब्दं श्रुत्वा एव अवगतवन्तौ पौलः आगतः इति । यतोऽपि तस्य विलम्बनम् मह्यम् न रोचते, तस्य ध्वनिः मधुरा अस्ति । प्रसिद्धः गायकः भविष्यति सः इति मम न संशयः ।

’अस्तु तर्हि । गच्छामः । अद्यतन पठनं सुन्दरं स्यात् । महकवेः अनुसन्धानम् करोति इत्युक्तवान् आस्सीत् आचार्यः ।’

’अस्तु । गच्छामः’ । तावप्युक्तवन्तौ ।

किमपि परस्परमनुक्त्वा किञ्चित् दुरम् चलितवन्तः वयम् । पौलः एव प्रथमं पृष्टवान् ’अद्य प्रात:काले गणितम् खलु?’ । ’आआम्म्म्म्’ इति अति मन्द-स्वरेन किमपि विचिन्तयन्निव जार्जः प्रत्यवदत् । ’मह्यम् तादृशम् गणितम् न रोचते यादृशम् भाषाज्ञानम्’ इति पौलः अवदत् । ’न केवलम् भवते, मह्यम् अपि’ इत्यहमपि समावदत् । ’अद्य ब्रह्मगुप्तस्य चक्रवालम् पाठयति । किमपि न अवगतम् मया गत वर्गे । चक्रवालम् व विचक्रवालम् वा कस्य को लाभः । किमपि भवेत् ।’ इति किञ्चित् उच्चस्थाय्याम् एव अवदम् । अग्रे वयम् मौनेन गत्वा विद्यालयम् प्राप्तवन्तः ।

’आर्यभट्ट-भवनम्’ आगतम् । अत्रैव हि गणितवर्गप्रकोष्टः । आचार्यः पाठम् आरब्धवान् । मम मनः तत्र नासीत् । यथेष्टम् नवोड्डयनकौशल्यः प्राप्तः विहङ्गरिव उड्डयनम् कृतः । न केवलम् आकशे अपि काले च । Keats वर्येन सह प्रातराशः । माध्याह्ने Wordsworth-कविना सह भोजनम् । रात्रौ तथा हि बृहत् कविसम्मेलने मधुरकाव्यपानम् ।

घण्टानादे गणितवर्गः समाप्तः । शीघ्रमेव समयः यापितः । उत्तममेव । यथापूर्वम् किमपि न अवगतम् । त्रयः वयम् मिलित्वा यास्क-नाम्ना भाषाभवनम् प्रति गतन्वन्तः । तत्र दूरम् गच्छन्तम् अन्यतमम् छात्रम् दृष्ट्वा जार्जः माम् सूचितवान् ’नूतनः सः । नाम तस्य रिच्’ ।

’एवम् वा । उत्तमम्’ । कदाचित् नाम श्रुत्वैव केषाञ्चित् जनानाम् आत्मसम्बन्धः निर्दिश्यते स्यात् । सः अपि तत्रैव गच्छन्नस्ति यत्र वयम् । अस्तु अनन्तरम् तेन परिचयम् करोमि इति चिन्तयित्वा प्रकोष्टम् मित्रैः सह प्रविष्टवान् ।

अस्माकम् आचार्यः अशिथिल: इति अन्ये छात्राः वदन्ति । तन्न मम मते । मह्यम् तु सः कारुण्यः इव भाति । तस्य भाषाज्ञानम् दृष्ट्वा अनेकवारम् विस्मितो आसमहम् । सर्वेषाम् आचर्याणाम् प्रियतमः सः शिष्यः यः विषये स्वाभाविकज्ञानम् च आसक्तिम् प्रदर्शयति खलु । द्रोणार्जुन न्याय्यरिव ।

Good morning, sir |

Good morning |

आचार्यः अपि कुतूहलेन प्रणम्यत् । ’उपविशन्ताम् ।’ एतस्य वर्गे मया तु सर्वदा प्रथमे मञ्चे एव उपवेष्टव्यः ।

’अस्तु । अद्य किञ्चित् सिंहावलोकनम् कुर्मः । विभक्त्यः स्मर्यन्ते वा?’

इतस्ततः लघुशब्दम् श्रुतम् । न कुत्रचित् उत्सुकम् । तृतीये मञ्चे उपविष्टम् जेम्सम् दृष्ट्वा आचार्यः पृष्टवान् ।

'He' इत्यस्य पदस्य सप्त-विभक्तिम् उभयोर्वचनयोः प्रदर्शयतु कृपया ।


He, They
Him, Them
By Him, By Them
.....


मौनम् । अनिर्वृतम् मौनम् वर्गे । 'Pin-drop silence' इति न्याय्यम् भवन्तः श्रुतवन्तः खलु । तथैव । मम मनसि क्षणे एव अनेके विषयाः विचाराः विमानम् इव प्रचलन्तः आसन् । विभक्त्यः । अहो सुन्दरम् सरलम् च । भाषाज्ञानस्य मूलभूतमेतदेव ननु । तदज्ञात्वा कथम् उत्तीर्णम् प्राप्स्यन्ति एते बालाः । अस्माकम् पूर्वजानां भाषां ज्ञातव्यम् इति लवनमात्रमपि अभिरुचिः नास्ति एतेषाम् ।

आचार्यः माम् प्रति वीक्षितवान् । भवान् जानात्येव, प्रतनोतु इति संज्ञया आदेशितवान् । अहम् बहु उत्सुकेन उत्थाय


to him/for him, to them/for them
Of him, of them
In him, in them

इति संपूरितवान् । अपि सर्वान् छात्रान् एक वारम् चक्षुषौ सारयितवान् ।

’धन्यवादाः । उपविश्येताम् । पश्यन्ताम् छात्राः । इयं भाषा सुलभम् अस्ति ननु । पद द्वयम् एव - Him/Them. केवलम् उपसर्गान् प्रयुजुय वाक्यार्थाः निर्णेयिताः । अपि च वचनद्वयम् एव - एकम् च बहु वचनम् च’ । अत्र कः क्लेशः ।’

पाठः अग्रे गतः । कुतुहलेन श्रुतः मया । यदा यदा Keats अथवा Wordsworth प्रति आचार्यः वदति, अहम् पौलं प्रति पश्यामि । तस्य मुखेऽपि प्रसन्नता दृश्यते ।

वर्गे समाप्ते, सर्वे गतवन्तः । मम एकः प्रश्नः स्फुरितः, पुनः आचार्यम् प्रति गच्छामि स्म । तस्मिन्नेव समये तत्र अन्यः आचार्यः आगतवान् । अतः तयोः सम्भाषणं श्रोतुम् अवकाशः अभवत् । आद्यौ तयोः सम्भाषणम् सम्यक् न श्रुतम् । किञ्चित् तीक्ष्न-कर्णाभ्यां श्रोतुम् यतितवान् ।

’आम् भॊः’ इति मम आचार्यः अवदत् । ’उदर निमित्तमेव जीवनम् । किं करवाणि । मनः तु षेक्स्पियर् वाञ्छति । मुखेन कालिदसस्य प्रशंसाः । भाषाम् तु पाठयामि । परन्तु छात्राणाम् आसक्तिः न अस्ति । तेषाम् अङ्कान्यैव लक्ष्याणि । विभक्तिम् पाठयामि । व्याकरणम् पाठयामि । परन्तु "What is your name?" इति पृष्टे प्रत्युत्तरम् दातुम् अपि असमर्थः आधुनिकाः बाला: ।’ इत्युक्त्व किञ्चित् मौनम् साधितवान् । पुनः ’अस्माकम् आधुनिक स्थित्याः कारणम् भारतम् एव । तैः अस्माकम् भाषाक्षीणम् अभवत् । तैः महती हानिः कृता । अयर्देशः हस्तात् गतः । स्काट्-देशः अपि गतः । अखण्ड-आङ्ग्ल-साम्राज्यस्य लक्ष्यम् अधो पतितम् । धिक् भारतानाम् ।’

अन्यः आचार्यः अपि किञ्चित् मौनेन स्थित्वा तदनन्तरम् अङ्गीकृतवान् । ’सत्यम् उक्तम् विन्स्टन्-वर्य । परन्तु अयम् शापः स्यात् । इदानीम् छात्राः षेक्स्पियर् न इच्छन्ति । कालिदासम् वा भारविम् वा पठितुम् इच्छन्ति । इदानीं तु किञ्चित् वा पठन्ति । भविष्ये तदपि न बोधितुम् अवकाशः अस्माभिः न लभ्यते । एतैरेव सन्तुष्यामः ।’

’कथं भॊः । कथं सन्तुष्यामहे ।’ इति दु:खेन समावृतम् वाक्यमेव मया अन्त्या श्रुतम् । व्याकुलितोऽहम् आचार्यं पृष्टव्यम् प्रश्नम् विस्मृत्य गृहमागतवान् । वेगेन आगत्य मातरमपि अनवद्य मम प्रकोष्टद्वारम् पिधानम् कृत्वा किञ्चित् कालम् मौनेन भित्तिकं उपरि गभीरतया स्थास्यमानम् षेक्स्पियर्वर्यस्य चित्रं द्ष्टवान् । ’इयम् मम प्रतिज्ञा अस्ति । न केवलम् व्याकरणम् परन्तु भाषायाः सर्वज्ञानम् प्राप्य जनाकर्षनोन्मत्थनकविताः रचयित्वा आग्ङ्ल-भाषायाः महोन्नतम् प्रापयिष्यामि । कदाचित् एवमपि स्यात् ।’

१९४८-तमे भारतात् स्वातन्त्र्यम् प्राप्य वर्षैके समाप्ते ।
- जान्
Post a Comment